|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.69. अध्यायः 069
Mahabharata - Vana Parva - Chapter Topics
ऋतुपर्णेन दमयन्तीस्वयंवराय बाहुकं सारत्येनियोज्य वार्ष्णेयेन सह विदर्भान्प्रति प्रस्थानम् ॥ 1 ॥ वार्ष्णेयेन बाहुके सारथ्यकौशलेन नलत्वसंभावना ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-69-0x(1950)(18535)
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः।
`सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः।
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥ 3-69-1(18536)
बाहुकं च समाहूय दमयन्त्याः स्वयंवरम्'।
सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ 3-69-2(18537)
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम्।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ 3-69-3(18538)
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ 3-69-4(18539)
दमयन्ती भवेदेवं किंनु दुःखेन मोहिता।
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥ 3-69-5(18540)
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी।
यया क्षुद्रेण निकृताकृपणा पापबुद्धिना।
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥ 3-69-6(18541)
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥ 3-69-7(18542)
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम्।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ 3-69-8(18543)
इति निश्चित्य मनसा बाहुको दीनमानसः।
कृतालुरुवाचेदमृतुपर्णं जनाधिपम् ॥ 3-69-9(18544)
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप।
`तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥ 3-69-10(18545)
एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव।
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥ 3-69-11(18546)
बाहुक उवाच। 3-69-12x(1951)
यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम्' ॥ 3-69-12(18547)
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः।
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥ 3-69-13(18548)
स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः।
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ 3-69-14(18549)
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ 3-69-15(18550)
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः।
`दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि' ॥ 3-69-16(18551)
तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम् ॥ 3-69-17(18552)
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम्।
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥ 3-69-18(18553)
बाहुक उवाच। 3-69-19x(1952)
[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः।
द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥] 3-69-19(18554)
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते ॥ 3-69-20(18555)
ऋतुपर्ण उवाच। 3-69-21x(1953)
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥ 3-69-21(18556)
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्।
योजयामास कुशलो जवयुक्तान्रथे नलः ॥ 3-69-22(18557)
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ 3-69-23(18558)
ततो नरवरः श्रीमान्नलो राजा विशांपते।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ 3-69-24(18559)
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ 3-69-25(18560)
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः।
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥ 3-69-26(18561)
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥ 3-69-27(18562)
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ 3-69-28(18563)
किंनु स्यान्मातलिरयं देवराजस्य सारथिः।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥ 3-69-29(18564)
शालिहोत्रोऽथ किंतु स्याद्धयानां कुलतत्त्ववित्।
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥ 3-69-30(18565)
उताहोस्विद्भवेद्राजा नलः परपुरंजयः।
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥ 3-69-31(18566)
अथवाऽयंनलात्प्राप्तो विद्यां तामेव बाहुकः।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ 3-69-32(18567)
अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥ 3-69-33(18568)
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥ 3-69-34(18569)
भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥ 3-69-35(18570)
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ 3-69-36(18571)
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ 3-69-37(18572)
ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम्।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ 3-69-38(18573)
ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत्।
कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह ॥ 3-69-39(18574)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-69-7 सापत्या अपत्यसहिता ॥ 3-69-15 प्रोथं नासिका। हनुः अधरं मुखफलकम् ॥ 3-69-16 सिन्धुजान् सिन्धुदेशजान् ॥ 3-69-18 बलं भारसहिष्णुता। प्राणो वेगवत्ता। वक्ष्यन्ति वह्नं करिष्यन्ति ॥ 3-69-19 प्रयाणे पृष्ठभागे ॥ 3-69-30 शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥ 3-69-34 विधिना युक्ताः संयुक्ताश्च विरूपणैरिति क. पाठः ॥ 3-69-35 भवेत्तु मतिभेदो मे इति क. पाठः ॥ 3-69-36 अन्ततः निर्णयेन ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|