(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.69. अध्यायः 069
Mahabharata - Vana Parva - Chapter Topics
ऋतुपर्णेन दमयन्तीस्वयंवराय बाहुकं सारत्येनियोज्य वार्ष्णेयेन सह विदर्भान्प्रति प्रस्थानम् ॥ 1 ॥ वार्ष्णेयेन बाहुके सारथ्यकौशलेन नलत्वसंभावना ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-69-0x(1950)(18535)
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः।
`सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः।
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥ 3-69-1(18536)
बाहुकं च समाहूय दमयन्त्याः स्वयंवरम्'।
सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ 3-69-2(18537)
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम्।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ 3-69-3(18538)
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ 3-69-4(18539)
दमयन्ती भवेदेवं किंनु दुःखेन मोहिता।
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥ 3-69-5(18540)
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी।
यया क्षुद्रेण निकृताकृपणा पापबुद्धिना।
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥ 3-69-6(18541)
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥ 3-69-7(18542)
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम्।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ 3-69-8(18543)
इति निश्चित्य मनसा बाहुको दीनमानसः।
कृतालुरुवाचेदमृतुपर्णं जनाधिपम् ॥ 3-69-9(18544)
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप।
`तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥ 3-69-10(18545)
एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव।
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥ 3-69-11(18546)
बाहुक उवाच। 3-69-12x(1951)
यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम्' ॥ 3-69-12(18547)
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः।
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥ 3-69-13(18548)
स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः।
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ 3-69-14(18549)
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ 3-69-15(18550)
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः।
`दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि' ॥ 3-69-16(18551)
तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम् ॥ 3-69-17(18552)
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम्।
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥ 3-69-18(18553)
बाहुक उवाच। 3-69-19x(1952)
[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः।
द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥] 3-69-19(18554)
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते ॥ 3-69-20(18555)
ऋतुपर्ण उवाच। 3-69-21x(1953)
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥ 3-69-21(18556)
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्।
योजयामास कुशलो जवयुक्तान्रथे नलः ॥ 3-69-22(18557)
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ 3-69-23(18558)
ततो नरवरः श्रीमान्नलो राजा विशांपते।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ 3-69-24(18559)
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ 3-69-25(18560)
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः।
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥ 3-69-26(18561)
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥ 3-69-27(18562)
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ 3-69-28(18563)
किंनु स्यान्मातलिरयं देवराजस्य सारथिः।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥ 3-69-29(18564)
शालिहोत्रोऽथ किंतु स्याद्धयानां कुलतत्त्ववित्।
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥ 3-69-30(18565)
उताहोस्विद्भवेद्राजा नलः परपुरंजयः।
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥ 3-69-31(18566)
अथवाऽयंनलात्प्राप्तो विद्यां तामेव बाहुकः।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ 3-69-32(18567)
अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥ 3-69-33(18568)
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥ 3-69-34(18569)
भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥ 3-69-35(18570)
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ 3-69-36(18571)
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ 3-69-37(18572)
ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम्।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ 3-69-38(18573)
ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत्।
कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह ॥ 3-69-39(18574)

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-69-7 सापत्या अपत्यसहिता ॥ 3-69-15 प्रोथं नासिका। हनुः अधरं मुखफलकम् ॥ 3-69-16 सिन्धुजान् सिन्धुदेशजान् ॥ 3-69-18 बलं भारसहिष्णुता। प्राणो वेगवत्ता। वक्ष्यन्ति वह्नं करिष्यन्ति ॥ 3-69-19 प्रयाणे पृष्ठभागे ॥ 3-69-30 शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥ 3-69-34 विधिना युक्ताः संयुक्ताश्च विरूपणैरिति क. पाठः ॥ 3-69-35 भवेत्तु मतिभेदो मे इति क. पाठः ॥ 3-69-36 अन्ततः निर्णयेन ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.